Original

विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् ।अन्तस्तोयं मणिमयभुवस् तुङ्गम् अभ्रंलिहाग्राः प्रासादास् त्वां तुलयितुम् अलं यत्र तैस् तैर् विशेषैः ॥ १ ॥

Segmented

विद्युत्वन्तम् ललित-वनिताः स इन्द्रचापम् स चित्राः संगीताय प्रहत-मुरजाः स्निग्ध-गम्भीर-घोषम् अन्तः तोयम् मणि-मय-भुवः तुङ्गम् अभ्रंलिह-अग्राः प्रासादास् त्वाम् तुलयितुम् अलम् यत्र तैस् तैः विशेषैः

Analysis

Word Lemma Parse
विद्युत्वन्तम् विद्युत्वत् pos=a,g=m,c=2,n=s
ललित ललित pos=a,comp=y
वनिताः वनिता pos=n,g=f,c=2,n=p
pos=i
इन्द्रचापम् इन्द्रचाप pos=n,g=m,c=2,n=s
pos=i
चित्राः चित्र pos=a,g=m,c=1,n=p
संगीताय संगीत pos=n,g=n,c=4,n=s
प्रहत प्रहन् pos=va,comp=y,f=part
मुरजाः मुरज pos=n,g=m,c=1,n=p
स्निग्ध स्निग्ध pos=a,comp=y
गम्भीर गम्भीर pos=a,comp=y
घोषम् घोष pos=n,g=m,c=2,n=s
अन्तः अन्तर् pos=i
तोयम् तोय pos=n,g=m,c=2,n=s
मणि मणि pos=n,comp=y
मय मय pos=a,comp=y
भुवः भू pos=n,g=f,c=1,n=p
तुङ्गम् तुङ्ग pos=a,g=m,c=2,n=s
अभ्रंलिह अभ्रंलिह pos=a,comp=y
अग्राः अग्र pos=n,g=m,c=1,n=p
प्रासादास् प्रासाद pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
तुलयितुम् तुलय् pos=vi
अलम् अलम् pos=i
यत्र यत्र pos=i
तैस् तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
विशेषैः विशेष pos=n,g=m,c=3,n=p