Original

प्रालेयाद्रेर् उपतटम् अतिक्रम्य तांस् तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् ।तेनोदीचीं दिशम् अनुसरेस् तिर्यग् आयामशोभी श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ ६० ॥

Segmented

प्रालेयाद्रेः उपतटम् अतिक्रम्य तांस् तान् विशेषान् हंसद्वारम् भृगुपति-यशः-वर्त्मन् यत् क्रौञ्चरन्ध्रम् तेन उदीचीम् दिशम् अनुसरेस् तिर्यग् आयाम-शोभी श्यामः पादो बलि-नियमन-अभ्युद्यतस्य इव विष्णोः

Analysis

Word Lemma Parse
प्रालेयाद्रेः प्रालेयाद्रि pos=n,g=m,c=6,n=s
उपतटम् उपतटम् pos=i
अतिक्रम्य अतिक्रम् pos=vi
तांस् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
विशेषान् विशेष pos=n,g=m,c=2,n=p
हंसद्वारम् हंसद्वार pos=n,g=n,c=2,n=s
भृगुपति भृगुपति pos=n,comp=y
यशः यशस् pos=n,comp=y
वर्त्मन् वर्त्मन् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
क्रौञ्चरन्ध्रम् क्रौञ्चरन्ध्र pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
अनुसरेस् अनुसृ pos=v,p=2,n=s,l=vidhilin
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
आयाम आयाम pos=n,comp=y
शोभी शोभिन् pos=a,g=m,c=1,n=s
श्यामः श्याम pos=a,g=m,c=1,n=s
पादो पाद pos=n,g=m,c=1,n=s
बलि बलि pos=n,comp=y
नियमन नियमन pos=n,comp=y
अभ्युद्यतस्य अभ्युद्यम् pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
विष्णोः विष्णु pos=n,g=m,c=6,n=s