Original

यस्तु कर्तास्य वैरस्य निकृत्या निकृतिप्रियः ।सोऽयं विनिहतः शेते पृथिव्यां पृथिवीपते ॥ ४० ॥

Segmented

यः तु कर्ता अस्य वैरस्य निकृत्या निकृति-प्रियः सो ऽयम् विनिहतः शेते पृथिव्याम् पृथिवीपते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
कर्ता कर्तृ pos=a,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
वैरस्य वैर pos=n,g=m,c=6,n=s
निकृत्या निकृति pos=n,g=f,c=3,n=s
निकृति निकृति pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विनिहतः विनिहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s