Original

मैत्रेयेणाभिशप्तश्च पूर्वमेव महर्षिणा ।ऊरू भेत्स्यति ते भीमो गदयेति परंतप ।अतो दोषं न पश्यामि मा क्रुधस्त्वं प्रलम्बहन् ॥ १५ ॥

Segmented

मैत्रेयेण अभिशप्तः च पूर्वम् एव महा-ऋषिणा ऊरू भेत्स्यति ते भीमो गदया इति परंतप अतो दोषम् न पश्यामि मा क्रुधः त्वम् प्रलम्ब-हन्

Analysis

Word Lemma Parse
मैत्रेयेण मैत्रेय pos=n,g=m,c=3,n=s
अभिशप्तः अभिशप् pos=va,g=m,c=1,n=s,f=part
pos=i
पूर्वम् पूर्वम् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
ऊरू ऊरु pos=n,g=m,c=2,n=d
भेत्स्यति भिद् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
भीमो भीम pos=n,g=m,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
इति इति pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
अतो अतस् pos=i
दोषम् दोष pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
मा मा pos=i
क्रुधः क्रुध् pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रलम्ब प्रलम्ब pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s