Original

आत्मन्यपि च मित्रेषु विपरीतं यदा भवेत् ।तदा विद्यान्मनोज्यानिमाशु शान्तिकरो भवेत् ॥ १२ ॥

Segmented

आत्मनि अपि च मित्रेषु विपरीतम् यदा भवेत् तदा विद्यात् मनः-ज्यानिम् आशु शान्ति-करः भवेत्

Analysis

Word Lemma Parse
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
अपि अपि pos=i
pos=i
मित्रेषु मित्र pos=n,g=m,c=7,n=p
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
यदा यदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तदा तदा pos=i
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,comp=y
ज्यानिम् ज्यानि pos=n,g=f,c=2,n=s
आशु आशु pos=i
शान्ति शान्ति pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin