Original

उवाच चैनं संरब्धं शमयन्निव केशवः ।आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा ।विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः ॥ ११ ॥

Segmented

उवाच च एनम् संरब्धम् शमयन्न् इव केशवः आत्म-वृद्धिः मित्र-वृद्धिः मित्र-मित्र-उदयः तथा विपरीतम् द्विषत्सु एतत् षड्विधा वृद्धिः आत्मनः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
शमयन्न् शमय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
केशवः केशव pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
मित्र मित्र pos=n,comp=y
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
मित्र मित्र pos=n,comp=y
मित्र मित्र pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
तथा तथा pos=i
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
द्विषत्सु द्विष् pos=va,g=m,c=7,n=p,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
षड्विधा षड्विध pos=a,g=f,c=1,n=s
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s