Original

ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः ।सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः ॥ ४३ ॥

Segmented

ततः सर्वे समाजग्मुः तत्र राजन् महा-ऋषयः सारस्वतम् मुनि-श्रेष्ठम् इदम् ऊचुः समागताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सारस्वतम् सारस्वत pos=n,g=m,c=2,n=s
मुनि मुनि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
समागताः समागम् pos=va,g=m,c=1,n=p,f=part