Original

तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः ।वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् ॥ ३५ ॥

Segmented

तस्याम् द्वादश-वार्षिकायाम् अनावृष्ट्याम् महा-ऋषयः वृत्ति-अर्थम् प्राद्रवन् राजन् क्षुधा-आर्ताः सर्वतोदिशम्

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकायाम् वार्षिक pos=a,g=f,c=7,n=s
अनावृष्ट्याम् अनावृष्टि pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
वृत्ति वृत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
क्षुधा क्षुधा pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
सर्वतोदिशम् सर्वतोदिशम् pos=i