Original

जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् ।स्वाध्यायेनापि महता बभूवुः पूरिता दिशः ॥ ४३ ॥

Segmented

जुह्वताम् तत्र तेषाम् तु मुनीनाम् भावितात्मनाम् स्वाध्यायेन अपि महता बभूवुः पूरिता दिशः

Analysis

Word Lemma Parse
जुह्वताम् हु pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p
स्वाध्यायेन स्वाध्याय pos=n,g=m,c=3,n=s
अपि अपि pos=i
महता महत् pos=a,g=m,c=3,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
पूरिता पृ pos=va,g=f,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=1,n=p