Original

तत्रापि विधिवद्दत्त्वा विप्रेभ्यो रत्नसंचयान् ।प्रायात्प्राचीं दिशं राजन्दीप्यमानः स्वतेजसा ॥ ३२ ॥

Segmented

तत्र अपि विधिवद् दत्त्वा विप्रेभ्यो रत्न-संचयान् प्रायात् प्राचीम् दिशम् राजन् दीप्यमानः स्व-तेजसा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
विधिवद् विधिवत् pos=i
दत्त्वा दा pos=vi
विप्रेभ्यो विप्र pos=n,g=m,c=4,n=p
रत्न रत्न pos=n,comp=y
संचयान् संचय pos=n,g=m,c=2,n=p
प्रायात् प्रया pos=v,p=3,n=s,l=lan
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दीप्यमानः दीप् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s