Original

यथासुखं जनः सर्वस्तिष्ठते याति वा तदा ।यातुकामस्य यानानि पानानि तृषितस्य च ॥ २५ ॥

Segmented

यथासुखम् जनः सर्वः तिष्ठते याति वा तदा यातु-कामस्य यानानि पानानि तृषितस्य च

Analysis

Word Lemma Parse
यथासुखम् यथासुखम् pos=i
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
तिष्ठते स्था pos=v,p=3,n=s,l=lat
याति या pos=v,p=3,n=s,l=lat
वा वा pos=i
तदा तदा pos=i
यातु यातु pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
यानानि यान pos=n,g=n,c=1,n=p
पानानि पान pos=n,g=n,c=1,n=p
तृषितस्य तृषित pos=a,g=m,c=6,n=s
pos=i