Original

गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह ।संभारांस्तीर्थयात्रायां सर्वोपकरणानि च ।आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा ॥ १५ ॥

Segmented

गच्छन्न् एव पथिस्थः तु रामः प्रेष्यान् उवाच ह संभारान् तीर्थ-यात्रायाम् सर्व-उपकरणानि च आनयध्वम् द्वारकाया अग्नीन् वै याजकान् तथा

Analysis

Word Lemma Parse
गच्छन्न् गम् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
पथिस्थः पथिस्थ pos=a,g=m,c=1,n=s
तु तु pos=i
रामः राम pos=n,g=m,c=1,n=s
प्रेष्यान् प्रेष्य pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
संभारान् सम्भार pos=n,g=m,c=2,n=p
तीर्थ तीर्थ pos=n,comp=y
यात्रायाम् यात्रा pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
उपकरणानि उपकरण pos=n,g=n,c=2,n=p
pos=i
आनयध्वम् आनी pos=v,p=2,n=p,l=lot
द्वारकाया द्वारका pos=n,g=f,c=5,n=s
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
वै वै pos=i
याजकान् याजक pos=n,g=m,c=2,n=p
तथा तथा pos=i