Original

सहितैर्नाम योद्धव्यमित्येष समयः कृतः ।अथ कस्मात्परानेव घ्नतो मर्षयसे नृप ॥ २० ॥

Segmented

सहितैः नाम योद्धव्यम् इति एष समयः कृतः अथ कस्मात् परान् एव घ्नतो मर्षयसे नृप

Analysis

Word Lemma Parse
सहितैः सहित pos=a,g=m,c=3,n=p
नाम नाम pos=i
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
समयः समय pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
कस्मात् कस्मात् pos=i
परान् पर pos=n,g=m,c=2,n=p
एव एव pos=i
घ्नतो हन् pos=va,g=m,c=2,n=p,f=part
मर्षयसे मर्षय् pos=v,p=2,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s