Original

तस्मिंस्तु निहते वीरे द्रोणपुत्रः प्रतापवान् ।आरुरोह रथं तूर्णं तमेव रथिनां वरः ॥ ४१ ॥

Segmented

तस्मिन् तु निहते वीरे द्रोणपुत्रः प्रतापवान् आरुरोह रथम् तूर्णम् तम् एव रथिनाम् वरः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s