Original

ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः ।रथेन मेघघोषेण द्रौणिमेवाभ्यधावत ॥ ३५ ॥

Segmented

ततस् तु सुरथो अपि आजौ पाञ्चालानाम् महा-रथः रथेन मेघ-घोषेण द्रौणिम् एव अभ्यधावत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
सुरथो सुरथ pos=n,g=m,c=1,n=s
अपि अपि pos=i
आजौ आजि pos=n,g=m,c=7,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
मेघ मेघ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan