Original

ततः साधुविसृष्टेन क्षुरेण पुरुषर्षभः ।छित्त्वा शरासनं शत्रोर्नागमामित्रमार्दयत् ॥ ४० ॥

Segmented

ततः साधु-विसृष्टेन क्षुरेण पुरुष-ऋषभः छित्त्वा शरासनम् शत्रोः नागम् आमित्रम् आर्दयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
साधु साधु pos=a,comp=y
विसृष्टेन विसृज् pos=va,g=m,c=3,n=s,f=part
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
छित्त्वा छिद् pos=vi
शरासनम् शरासन pos=n,g=m,c=2,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
नागम् नाग pos=n,g=m,c=2,n=s
आमित्रम् आमित्र pos=a,g=m,c=2,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan