Original

तावन्योन्यस्य धनुषी छित्त्वान्योन्यं विनेदतुः ।शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः ॥ ३१ ॥

Segmented

ताव् अन्योन्यस्य धनुषी छित्त्वा अन्योन्यम् विनेदतुः शक्ति-तोमर-वर्षेण प्रावृः-मेघौ इव अम्बुभिः

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
धनुषी धनुस् pos=n,g=n,c=2,n=d
छित्त्वा छिद् pos=vi
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
विनेदतुः विनद् pos=v,p=3,n=d,l=lit
शक्ति शक्ति pos=n,comp=y
तोमर तोमर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
प्रावृः प्रावृष् pos=n,comp=y
मेघौ मेघ pos=n,g=m,c=1,n=d
इव इव pos=i
अम्बुभिः अम्बु pos=n,g=n,c=3,n=p