Original

दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् ।भानुमन्तमिवोद्यन्तं तमो घ्नन्तं सहस्रशः ॥ ११ ॥

Segmented

दृष्ट्वा कर्णम् महा-इष्वासम् रथ-स्थम् रथिनाम् वरम् भानुमन्तम् इव उद्यन्तम् तमो घ्नन्तम् सहस्रशः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
भानुमन्तम् भानुमन्त् pos=n,g=m,c=2,n=s
इव इव pos=i
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
तमो तमस् pos=n,g=n,c=2,n=s
घ्नन्तम् हन् pos=va,g=m,c=2,n=s,f=part
सहस्रशः सहस्रशस् pos=i