Original

भुजाः सवज्राङ्गुलयः समुच्छ्रिताः ससिंहनादा हृषितैर्दिदृक्षुभिः ।यदार्जुनं मत्तमिव द्विपो द्विपं समभ्ययादाधिरथिर्जिघांसया ॥ ९ ॥

Segmented

भुजाः स वज्र-अङ्गुलयः समुच्छ्रिताः स सिंहनादाः हृषितैः दिदृक्षुभिः यदा अर्जुनम् मत्तम् इव द्विपो द्विपम् समभ्ययाद् आधिरथिः जिघांसया

Analysis

Word Lemma Parse
भुजाः भुज pos=n,g=m,c=1,n=p
pos=i
वज्र वज्र pos=n,comp=y
अङ्गुलयः अङ्गुलि pos=n,g=m,c=1,n=p
समुच्छ्रिताः समुच्छ्रि pos=va,g=m,c=1,n=p,f=part
pos=i
सिंहनादाः सिंहनाद pos=n,g=m,c=1,n=p
हृषितैः हृष् pos=va,g=m,c=3,n=p,f=part
दिदृक्षुभिः दिदृक्षु pos=a,g=m,c=3,n=p
यदा यदा pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्विपो द्विप pos=n,g=m,c=1,n=s
द्विपम् द्विप pos=n,g=m,c=2,n=s
समभ्ययाद् समभिया pos=v,p=3,n=s,l=lan
आधिरथिः आधिरथि pos=n,g=m,c=1,n=s
जिघांसया जिघांसा pos=n,g=f,c=3,n=s