Original

ततो धनुर्ज्यामवधम्य शीघ्रं शरानस्तानाधिरथेर्विधम्य ।सुसंरब्धः कर्णशरक्षताङ्गो रणे पार्थः सोमकान्प्रत्यगृह्णात् ।न पक्षिणः संपतन्त्यन्तरिक्षे क्षेपीयसास्त्रेण कृतेऽन्धकारे ॥ ३४ ॥

Segmented

ततो धनुः-ज्याम् अवधम्य शीघ्रम् शरान् अस्तान् आधिरथेः विधम्य सु संरब्धः कर्ण-शर-क्षत-अङ्गः रणे पार्थः सोमकान् प्रत्यगृह्णात् न पक्षिणः संपतन्त्य् अन्तरिक्षे क्षेपीयस् अस्त्रेण कृते ऽन्धकारे

Analysis

Word Lemma Parse
ततो ततस् pos=i
धनुः धनुस् pos=n,comp=y
ज्याम् ज्या pos=n,g=f,c=2,n=s
अवधम्य अवधमय् pos=vi
शीघ्रम् शीघ्रम् pos=i
शरान् शर pos=n,g=m,c=2,n=p
अस्तान् अस् pos=va,g=m,c=2,n=p,f=part
आधिरथेः आधिरथि pos=n,g=m,c=6,n=s
विधम्य विधम् pos=vi
सु सु pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
कर्ण कर्ण pos=n,comp=y
शर शर pos=n,comp=y
क्षत क्षन् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
सोमकान् सोमक pos=n,g=m,c=2,n=p
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
pos=i
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
संपतन्त्य् सम्पत् pos=v,p=3,n=p,l=lat
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
क्षेपीयस् क्षेपीयस् pos=a,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
ऽन्धकारे अन्धकार pos=n,g=m,c=7,n=s