Original

तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः ।अनेकशो महाराज बभञ्ज पुरुषर्षभः ॥ ४८ ॥

Segmented

तान् निवृत्तान् रणे शूरान् राधेयः शत्रु-तापनः अनेकशो महा-राज बभञ्ज पुरुष-ऋषभः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
निवृत्तान् निवृत् pos=va,g=m,c=2,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
शूरान् शूर pos=n,g=m,c=2,n=p
राधेयः राधेय pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
अनेकशो अनेकशस् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s