Original

ईक्षस्वैतां भारतीं दीर्यमाणामेते कस्माद्विद्रवन्ते नरेन्द्राः ।व्यक्तं धीमान्सव्यसाची नराग्र्यः सैन्यं ह्येतच्छादयत्याशु बाणैः ॥ २१ ॥

Segmented

ईक्षस्व एताम् भारतीम् दीर्यमाणाम् एते कस्माद् विद्रवन्ते नरेन्द्राः व्यक्तम् धीमान् सव्यसाची नर-अग्र्यः सैन्यम् ह्य् एतत् छादयति आशु बाणैः

Analysis

Word Lemma Parse
ईक्षस्व ईक्ष् pos=v,p=2,n=s,l=lot
एताम् एतद् pos=n,g=f,c=2,n=s
भारतीम् भारत pos=a,g=f,c=2,n=s
दीर्यमाणाम् दृ pos=va,g=f,c=2,n=s,f=part
एते एतद् pos=n,g=m,c=1,n=p
कस्माद् कस्मात् pos=i
विद्रवन्ते विद्रु pos=v,p=3,n=p,l=lat
नरेन्द्राः नरेन्द्र pos=n,g=m,c=1,n=p
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
ह्य् हि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
छादयति छादय् pos=v,p=3,n=s,l=lat
आशु आशु pos=i
बाणैः बाण pos=n,g=m,c=3,n=p