Original

यस्य वीर्ये समाश्वस्य धार्तराष्ट्रो बृहन्मनाः ।अवामन्यत दुर्बुद्धिर्नित्यमस्मान्दुरात्मवान् ।तमद्य कर्णं राधेयं हन्तास्मि मधुसूदन ॥ १९ ॥

Segmented

यस्य वीर्ये समाश्वस्य धार्तराष्ट्रो बृहत्-मनाः अवामन्यत दुर्बुद्धिः नित्यम् अस्मान् दुरात्मवान् तम् अद्य कर्णम् राधेयम् हन्तास्मि मधुसूदन

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
समाश्वस्य समाश्वस् pos=vi
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
अवामन्यत अवमन् pos=v,p=3,n=s,l=lan
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
दुरात्मवान् दुरात्मवत् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
राधेयम् राधेय pos=n,g=m,c=2,n=s
हन्तास्मि हन् pos=v,p=1,n=s,l=lrt
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s