Original

तेषां तु क्रोशतां श्रुत्वा भीतानां रणमूर्धनि ।धावतां च दिशो राजन्वित्रस्तानां समन्ततः ।आर्तनादो महांस्तत्र प्रेतानामिव संप्लवे ॥ ४२ ॥

Segmented

तेषाम् तु क्रोशताम् श्रुत्वा भीतानाम् रण-मूर्ध्नि धावताम् च दिशो राजन् वित्रस्तानाम् समन्ततः आर्त-नादः महांस् तत्र प्रेतानाम् इव संप्लवे

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
क्रोशताम् क्रुश् pos=va,g=m,c=6,n=p,f=part
श्रुत्वा श्रु pos=vi
भीतानाम् भी pos=va,g=m,c=6,n=p,f=part
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
धावताम् धाव् pos=va,g=m,c=6,n=p,f=part
pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वित्रस्तानाम् वित्रस् pos=va,g=m,c=6,n=p,f=part
समन्ततः समन्ततः pos=i
आर्त आर्त pos=a,comp=y
नादः नाद pos=n,g=m,c=1,n=s
महांस् महत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
प्रेतानाम् प्रेत pos=n,g=m,c=6,n=p
इव इव pos=i
संप्लवे सम्प्लव pos=n,g=m,c=7,n=s