Original

केशवप्रहितैरश्वैः श्वेतैः काञ्चनभूषणैः ।प्रविशद्भिस्तव बलं चतुर्दिशमभिद्यत ॥ ८७ ॥

Segmented

केशव-प्रहितैः अश्वैः श्वेतैः काञ्चन-भूषणैः प्रविशद्भिस् तव बलम् चतुर्दिशम् अभिद्यत

Analysis

Word Lemma Parse
केशव केशव pos=n,comp=y
प्रहितैः प्रहि pos=va,g=m,c=3,n=p,f=part
अश्वैः अश्व pos=n,g=m,c=3,n=p
श्वेतैः श्वेत pos=a,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
प्रविशद्भिस् प्रविश् pos=va,g=m,c=3,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
चतुर्दिशम् चतुर्दिशम् pos=i
अभिद्यत भिद् pos=v,p=3,n=s,l=lan