Original

ततस्तव महत्सैन्यं गोविन्दप्रेरिता हयाः ।हंसवर्णाः प्रविविशुर्वहन्तः कृष्णपाण्डवौ ॥ ८६ ॥

Segmented

ततस् तव महत् सैन्यम् गोविन्द-प्रेरिताः हयाः हंस-वर्णाः प्रविविशुः वहन्तः कृष्ण-पाण्डवौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तव त्वद् pos=n,g=,c=6,n=s
महत् महत् pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
गोविन्द गोविन्द pos=n,comp=y
प्रेरिताः प्रेरय् pos=va,g=m,c=1,n=p,f=part
हयाः हय pos=n,g=m,c=1,n=p
हंस हंस pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
प्रविविशुः प्रविश् pos=v,p=3,n=p,l=lit
वहन्तः वह् pos=va,g=m,c=1,n=p,f=part
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d