Original

ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं नृप ।शरैर्ववर्षतुर्घोरैर्महामेघौ यथाचलम् ॥ १३ ॥

Segmented

ततस् तौ रभसौ युद्धे भ्रातरौ भ्रातरम् नृप शरैः ववर्षतुः घोरैः महा-मेघौ यथा अचलम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
रभसौ रभस pos=a,g=m,c=1,n=d
युद्धे युद्ध pos=n,g=n,c=7,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
ववर्षतुः वृष् pos=v,p=3,n=d,l=lit
घोरैः घोर pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
मेघौ मेघ pos=n,g=m,c=1,n=d
यथा यथा pos=i
अचलम् अचल pos=n,g=m,c=2,n=s