Original

एतस्मिन्नेव काले तु विजयः शत्रुतापनः ।न्यवधीत्तावकं सैन्यं शतशोऽथ सहस्रशः ।पश्यतस्तव पुत्रस्य तस्य वीरस्य भारत ॥ १२८ ॥

Segmented

एतस्मिन्न् एव काले तु विजयः शत्रु-तापनः न्यवधीत् तावकम् सैन्यम् शतशो ऽथ सहस्रशः पश्यतस् तव पुत्रस्य तस्य वीरस्य भारत

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
विजयः विजय pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
न्यवधीत् निवध् pos=v,p=3,n=s,l=lun
तावकम् तावक pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
पश्यतस् दृश् pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s