Original

तेजोवधं सूतपुत्रस्य संख्ये प्रतिश्रुत्वाजातशत्रोः पुरस्तात् ।दुराधर्षः शक्रसमानवीर्यः शल्यः स्थितो योद्धुकामस्त्वदर्थे ॥ ९५ ॥

Segmented

तेजः-वधम् सूतपुत्रस्य संख्ये प्रतिश्रुत्य अजातशत्रोः पुरस्तात् दुराधर्षः शक्र-समान-वीर्यः शल्यः स्थितो योद्धु-कामः त्वद्-अर्थे

Analysis

Word Lemma Parse
तेजः तेजस् pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रतिश्रुत्य प्रतिश्रु pos=vi
अजातशत्रोः अजातशत्रु pos=n,g=m,c=6,n=s
पुरस्तात् पुरस्तात् pos=i
दुराधर्षः दुराधर्ष pos=a,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
समान समान pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
योद्धु योद्धु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s