Original

संजय उवाच ।यस्मिन्महास्त्राणि समर्पितानि चित्राणि शुभ्राणि चतुर्विधानि ।दिव्यानि राजन्निहितानि चैव द्रोणेन वीरद्विजसत्तमेन ॥ ९० ॥

Segmented

संजय उवाच यस्मिन् महा-अस्त्राणि समर्पितानि चित्राणि शुभ्राणि चतुर्विधानि दिव्यानि राजन् निहितानि च एव द्रोणेन वीर-द्विज-सत्तमेन

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्मिन् यद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
समर्पितानि समर्पय् pos=va,g=n,c=1,n=p,f=part
चित्राणि चित्र pos=a,g=n,c=1,n=p
शुभ्राणि शुभ्र pos=a,g=n,c=1,n=p
चतुर्विधानि चतुर्विध pos=a,g=n,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
निहितानि निधा pos=va,g=n,c=1,n=p,f=part
pos=i
एव एव pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
वीर वीर pos=n,comp=y
द्विज द्विज pos=n,comp=y
सत्तमेन सत्तम pos=a,g=m,c=3,n=s