Original

ततो द्रोणो महेष्वासः पाञ्चालानां रथव्रजान् ।निहत्य युधि दुर्धर्षः पश्चाद्रुक्मरथो हतः ॥ ५ ॥

Segmented

ततो द्रोणो महा-इष्वासः पाञ्चालानाम् रथ-व्रजान् निहत्य युधि दुर्धर्षः पश्चाद् रुक्मरथो हतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
व्रजान् व्रज pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
युधि युध् pos=n,g=f,c=7,n=s
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
पश्चाद् पश्चात् pos=i
रुक्मरथो रुक्मरथ pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part