Original

तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि ।अस्मदीयाश्च बहवः स्वर्गायोपगता रणे ।त्यक्त्वा प्राणान्यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः ॥ १० ॥

Segmented

तथा अन्ये पुरुष-व्याघ्राः परैः विनिहता युधि अस्मदीयाः च बहवः स्वर्गाय उपगताः रणे त्यक्त्वा प्राणान् यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः

Analysis

Word Lemma Parse
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
परैः पर pos=n,g=m,c=3,n=p
विनिहता विनिहन् pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
अस्मदीयाः अस्मदीय pos=a,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
स्वर्गाय स्वर्ग pos=n,g=m,c=4,n=s
उपगताः उपगम् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
यथाशक्ति यथाशक्ति pos=i
चेष्टाः चेष्टा pos=n,g=f,c=2,n=p
कृत्वा कृ pos=vi
pos=i
पुष्कलाः पुष्कल pos=a,g=f,c=2,n=p