Original

ततः परमसंक्रुद्धः काण्डकोशानवासृजत् ।अश्वत्थामाभिरूपाय गृहानतिथये यथा ॥ ४६ ॥

Segmented

ततः परम-संक्रुद्धः काण्ड-कोशान् अवासृजत् अश्वत्थामा अभिरूपाय गृहान् अतिथये यथा

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
काण्ड काण्ड pos=n,comp=y
कोशान् कोश pos=n,g=m,c=2,n=p
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
अभिरूपाय अभिरूप pos=a,g=m,c=4,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
अतिथये अतिथि pos=n,g=m,c=4,n=s
यथा यथा pos=i