Original

यत्तद्द्यूतपरिक्लिष्टां कृष्णामानिन्यिरे सभाम् ।तत्स्मरन्तोऽन्वतप्यन्त भृशमुद्विग्नचेतसः ॥ ७ ॥

Segmented

यत् तद् द्यूत-परिक्लिष्टाम् कृष्णाम् आनिन्यिरे सभाम् तत् स्मरन्तो ऽन्वतप्यन्त भृशम् उद्विग्न-चेतसः

Analysis

Word Lemma Parse
यत् यत् pos=i
तद् तद् pos=n,g=n,c=2,n=s
द्यूत द्यूत pos=n,comp=y
परिक्लिष्टाम् परिक्लिश् pos=va,g=f,c=2,n=s,f=part
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
आनिन्यिरे आनी pos=v,p=3,n=p,l=lit
सभाम् सभा pos=n,g=f,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
स्मरन्तो स्मृ pos=va,g=m,c=1,n=p,f=part
ऽन्वतप्यन्त अनुतप् pos=v,p=3,n=p,l=lan
भृशम् भृशम् pos=i
उद्विग्न उद्विज् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p