Original

नारायणास्त्रे निहते द्रोणपुत्रस्य धीमतः ।हतशेषेष्वनीकेषु किमकुर्वत मामकाः ॥ ४२ ॥

Segmented

नारायण-अस्त्रे निहते द्रोणपुत्रस्य धीमतः हत-शेषेषु अनीकेषु किम् अकुर्वत मामकाः

Analysis

Word Lemma Parse
नारायण नारायण pos=n,comp=y
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
निहते निहन् pos=va,g=n,c=7,n=s,f=part
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
हत हन् pos=va,comp=y,f=part
शेषेषु शेष pos=n,g=m,c=7,n=p
अनीकेषु अनीक pos=n,g=m,c=7,n=p
किम् pos=n,g=n,c=2,n=s
अकुर्वत कृ pos=v,p=3,n=p,l=lan
मामकाः मामक pos=a,g=m,c=1,n=p