Original

एकोऽपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः ।धृष्टकेतुं तमायान्तं द्रोणात्कः समवारयत् ॥ ३९ ॥

Segmented

एको ऽपसृत्य चेदिभ्यः पाण्डवान् यः समाश्रितः धृष्टकेतुम् तम् आयान्तम् द्रोणात् कः समवारयत्

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
ऽपसृत्य अपसृ pos=vi
चेदिभ्यः चेदि pos=n,g=m,c=5,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
द्रोणात् द्रोण pos=n,g=m,c=5,n=s
कः pos=n,g=m,c=1,n=s
समवारयत् संवारय् pos=v,p=3,n=s,l=lan