Original

सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम् ।सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे ॥ ३० ॥

Segmented

सत्यम् धृतिः च शौर्यम् च ब्रह्मचर्यम् च केवलम् सर्वाणि युयुधाने अस्मिन् नित्यानि पुरुष-ऋषभे

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
pos=i
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
pos=i
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
pos=i
केवलम् केवल pos=a,g=n,c=1,n=s
सर्वाणि सर्व pos=n,g=n,c=1,n=p
युयुधाने युयुधान pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
नित्यानि नित्य pos=a,g=n,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभे ऋषभ pos=n,g=m,c=7,n=s