Original

प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्छितः ।विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् ।अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ॥ १९ ॥

Segmented

प्रतिलभ्य ततः संज्ञाम् मारुतिः क्रोध-मूर्छितः विकृष्य कार्मुकम् घोरम् भार-साधनम् उत्तमम् अलम्बुसम् शरैः तीक्ष्णैः अर्दयामास सर्वतः

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
मारुतिः मारुति pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
विकृष्य विकृष् pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
भार भार pos=n,comp=y
साधनम् साधन pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
अलम्बुसम् अलम्बुष pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अर्दयामास अर्दय् pos=v,p=3,n=s,l=lit
सर्वतः सर्वतस् pos=i