Original

तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते ।संघर्षेण महार्चिष्मान्पावकः समजायत ॥ ४८ ॥

Segmented

तत्र अन्तरिक्षे बाणानाम् प्रगाढानाम् विशाम् पते संघर्षेण महा-अर्चिष्मत् पावकः समजायत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
बाणानाम् बाण pos=n,g=m,c=6,n=p
प्रगाढानाम् प्रगाह् pos=va,g=m,c=6,n=p,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
संघर्षेण संघर्ष pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
अर्चिष्मत् अर्चिष्मत् pos=a,g=m,c=1,n=s
पावकः पावक pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan