Original

अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः ।इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् ॥ ४७ ॥

Segmented

अस्त्रैः अस्त्राणि संवार्य द्विषताम् सर्वतो विभुः इषुभिः बहुभिः तूर्णम् सर्वान् एव समावृणोत्

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संवार्य संवारय् pos=vi
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
सर्वतो सर्वतस् pos=i
विभुः विभु pos=a,g=m,c=1,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
समावृणोत् समावृ pos=v,p=3,n=s,l=lan