Original

हतानां वाजिनागानां रथानां च नरैः सह ।उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः ॥ १६ ॥

Segmented

हतानाम् वाजि-नागानाम् रथानाम् च नरैः सह उपरिष्टाद् अतिक्रान्ताः शैल-आभानाम् सहस्रशः

Analysis

Word Lemma Parse
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
वाजि वाजिन् pos=n,comp=y
नागानाम् नाग pos=n,g=m,c=6,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
pos=i
नरैः नर pos=n,g=m,c=3,n=p
सह सह pos=i
उपरिष्टाद् उपरिष्टात् pos=i
अतिक्रान्ताः अतिक्रम् pos=va,g=m,c=1,n=p,f=part
शैल शैल pos=n,comp=y
आभानाम् आभ pos=a,g=m,c=6,n=p
सहस्रशः सहस्रशस् pos=i