Original

ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः ।कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः ॥ १४ ॥

Segmented

ततस् तस्य रथ-ओघस्य मध्यम् प्राप्य हय-उत्तमाः कृच्छ्रेण रथम् ऊहुः तम् क्षुध्-पिपासा-श्रम-अन्विताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
ओघस्य ओघ pos=n,g=m,c=6,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
रथम् रथ pos=n,g=m,c=2,n=s
ऊहुः वह् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
श्रम श्रम pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p