Original

यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम ।पुत्रस्य पाण्डुपाञ्चालान्मया गुप्तो भवेत्ततः ॥ ७४ ॥

Segmented

यदि एवम् अहम् अज्ञास्यम् अशक्तान् रक्षणे मम पुत्रस्य पाण्डु-पाञ्चालान् मया गुप्तो भवेत् ततः

Analysis

Word Lemma Parse
यदि यदि pos=i
एवम् एवम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
अज्ञास्यम् ज्ञा pos=v,p=1,n=s,l=lrn
अशक्तान् अशक्त pos=a,g=m,c=2,n=p
रक्षणे रक्षण pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पाण्डु पाण्डु pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
मया मद् pos=n,g=,c=3,n=s
गुप्तो गुप् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ततः ततस् pos=i