Original

ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत् ।अथेतरे संनिवृत्ताः पुनर्द्रोणमुखा रथाः ।परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः ॥ २३ ॥

Segmented

ततः क्राथः शर-व्रातैः आर्जुनिम् समवाकिरत् अथ इतरे संनिवृत्ताः पुनः द्रोण-मुखाः रथाः परम-अस्त्राणि धुन्वानाः सौभद्रम् अभिदुद्रुवुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्राथः क्राथ pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
आर्जुनिम् आर्जुनि pos=n,g=m,c=2,n=s
समवाकिरत् समवकृ pos=v,p=3,n=s,l=lan
अथ अथ pos=i
इतरे इतर pos=n,g=m,c=1,n=p
संनिवृत्ताः संनिवृत् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
द्रोण द्रोण pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
धुन्वानाः धू pos=va,g=m,c=1,n=p,f=part
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit