Original

तं सिंहमिव संक्रुद्धं प्रमथ्नन्तं शरैररीन् ।आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम् ॥ ८ ॥

Segmented

तम् सिंहम् इव संक्रुद्धम् प्रमथ्नन्तम् शरैः अरीन् आराद् आयान्तम् अभ्येत्य वसातीयो ऽभ्ययाद् द्रुतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सिंहम् सिंह pos=n,g=m,c=2,n=s
इव इव pos=i
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
प्रमथ्नन्तम् प्रमथ् pos=va,g=m,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
अरीन् अरि pos=n,g=m,c=2,n=p
आराद् आरात् pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अभ्येत्य अभ्ये pos=vi
वसातीयो वसातीय pos=a,g=m,c=1,n=s
ऽभ्ययाद् अभिया pos=v,p=3,n=s,l=lan
द्रुतम् द्रुतम् pos=i