Original

तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः ।दिवमाक्रामदाचार्यः सद्भिः सह दुराक्रमम् ॥ ३९ ॥

Segmented

तथा उक्त्वा योगम् आस्थाय ज्योतिः-भूतः महा-तपाः दिवम् आक्रामद् आचार्यः सद्भिः सह दुराक्रमम्

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्त्वा वच् pos=vi
योगम् योग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
ज्योतिः ज्योतिस् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
आक्रामद् आक्रम् pos=v,p=3,n=s,l=lan
आचार्यः आचार्य pos=n,g=m,c=1,n=s
सद्भिः सत् pos=a,g=m,c=3,n=p
सह सह pos=i
दुराक्रमम् दुराक्रम pos=a,g=m,c=2,n=s