Original

ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः ।अब्रवीदभिसंप्रेक्ष्य द्रोणमस्यन्तमन्तिकात् ॥ १८ ॥

Segmented

ततः स्व-रथम् आरोप्य पाञ्चाल्यम् अरि-मर्दनः अब्रवीद् अभिसम्प्रेक्ष्य द्रोणम् अस्यन्तम् अन्तिकात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अभिसम्प्रेक्ष्य अभिसम्प्रेक्ष् pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अस्यन्तम् अस् pos=va,g=m,c=2,n=s,f=part
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s