Original

ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः ।अहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः ॥ १०० ॥

Segmented

ततो द्रोणो ब्राह्मम् अस्त्रम् विकुर्वाणो नर-ऋषभः अहनत् शात्रवान् भल्लैः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विकुर्वाणो विकृ pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
अहनत् हन् pos=v,p=3,n=s,l=lun
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i