Original

संजय उवाच ।क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे ।रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तु पशून्यथा ॥ १ ॥

Segmented

संजय उवाच क्रूरम् आयोधनम् जज्ञे तस्मिन् राज-समागमे रुद्रस्य इव हि क्रुद्धस्य निघ्नतः तु पशून् यथा

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रूरम् क्रूर pos=a,g=n,c=1,n=s
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
इव इव pos=i
हि हि pos=i
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
तु तु pos=i
पशून् पशु pos=n,g=m,c=2,n=p
यथा यथा pos=i