Original

हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान् ।न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः ॥ २९ ॥

Segmented

हस्त-संस्पर्शम् आपन्नान् परान् वा अपि अथ वा स्वकान् न्यपातयन् तदा युद्धे नराः स्म विजय-एषिणः

Analysis

Word Lemma Parse
हस्त हस्त pos=n,comp=y
संस्पर्शम् संस्पर्श pos=n,g=m,c=2,n=s
आपन्नान् आपद् pos=va,g=m,c=2,n=p,f=part
परान् पर pos=n,g=m,c=2,n=p
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
स्वकान् स्वक pos=a,g=m,c=2,n=p
न्यपातयन् निपातय् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
नराः नर pos=n,g=m,c=1,n=p
स्म स्म pos=i
विजय विजय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p